पुरा एक एव वेद आसीत् । तस्मिन् वेदे ऋग्यजुसामाथर्वणां मन्त्राणां समष्टिरूपे अर्थात् मिश्रितरूपे आसीत् । महर्षिणा व्यासेन ऋचां यजुषां साम्नां अथर्वाणाञ्च मन्त्राणां पृथक् पृथक् कृत्वा सम्पादनं वा पृथकीकरणं कृतम् । तेषु चतुर्षु वेदेषु ऋग्वेदीया मन्त्राः सर्वप्राचीना इति पूर्वीयैः पाश्चात्यैश्च विद्वभिः स्वीक्रियते । तस्मिन् ऋग्वेदेऽपि सूर्यग्रहणस्य वर्णनं दृश्यते । तादृशे सर्वप्राचीने वैदिकवाङ्मये ऋग्वेदे सूर्यग्रहणस्याऽधोलिखितमन्त्रद्वये वर्णनं दृष्ट्वा मानवसमाजे आकाशस्य विलोकनं पूर्वीयसमाजेऽतिप्…
Read moreपुरा एक एव वेद आसीत् । तस्मिन् वेदे ऋग्यजुसामाथर्वणां मन्त्राणां समष्टिरूपे अर्थात् मिश्रितरूपे आसीत् । महर्षिणा व्यासेन ऋचां यजुषां साम्नां अथर्वाणाञ्च मन्त्राणां पृथक् पृथक् कृत्वा सम्पादनं वा पृथकीकरणं कृतम् । तेषु चतुर्षु वेदेषु ऋग्वेदीया मन्त्राः सर्वप्राचीना इति पूर्वीयैः पाश्चात्यैश्च विद्वभिः स्वीक्रियते । तस्मिन् ऋग्वेदेऽपि सूर्यग्रहणस्य वर्णनं दृश्यते । तादृशे सर्वप्राचीने वैदिकवाङ्मये ऋग्वेदे सूर्यग्रहणस्याऽधोलिखितमन्त्रद्वये वर्णनं दृष्ट्वा मानवसमाजे आकाशस्य विलोकनं पूर्वीयसमाजेऽतिप्राचीनकालादेव प्रवर्तितमिति प्रमाणीभवति । एतादृशमेव सूर्यग्रहणस्य वर्णन काठकसंहितायां कपिष्ठलकठसंहितायां मैत्रायणीयसंहितायाञ्च दृश्यते । तदनन्तरं शतपथादिब्राह्मणग्रन्थेषु च सूर्यग्रहणस्योल्लेखो दृश्यते । ग्रहणस्य चर्चा हिन्दूसमाजे ऋग्वेदकालादेव विहिता दृश्यते । ऋग्वेदस्य समयनिर्धारणन्तु नाद्यावधि सन्तोषजनकरूपेण कृतं वर्तते । राहोः (स्वर्भानोः) कृष्णा घोटका अष्टौ सन्ति । रथश्च धूसराभोऽस्ति । अतोऽविछिन्नरूपेण रथस्थो राहुर्विलोमगत्या आकाशे निरन्तरं भ्रमति । सूर्यग्रहणे चन्द्रमारुह्य सूर्यलोकं गत्वा सूर्यं ग्रसति चेत् चन्द्रग्रहणे भूभां प्रविश्य चन्द्रं ग्रसतीति पुराणेषु वर्णितं दृश्यते । एवमेव अन्येषु देशेषु च ग्रहणसम्बन्धिन्य आख्यायिका प्रचलिता दृश्यते । चीनदेशे विक्रम पूर्व २०८० (२२ अक्टोवर २१३७ ई पू) समये जातस्य सूर्यग्रहणस्य उल्लेखो दृश्यते । सूचिङ्ग नामके ग्रन्थे अस्य सूर्यग्रहणस्य परिचर्चा कृता अस्ति । अमेरिकादेशवासीषु च ग्रहणविषये १५०४ ईस्वी पर्यन्तमपि अन्धविश्वास आसीत् ।